अमर्त्याः

सुधाव्याख्या

म्रियन्तेऽस्मिन्निति मर्तो भूलोकः । ‘हसिमृग्रिण्वामिदमिलूपूधुर्विभ्यस्तन्’ (उ० ३.८६) । तत्र भवा अप्युपचारान्मर्ताः । ततश्च ‘नवसूर मर्तयविष्ठेभ्यो यत्' (वा० ५.४.३६) इति स्वार्थे यत् । तद्भिन्ना: ॥


प्रक्रिया

धातुः - मृङ् प्राणत्यागे


मृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मृ+तन् - हसिमृग्रिणवाऽमिदमिलूपूधुर्विभ्यस्तन् 3.86 । उणादिसूत्रम् ।
मृ+त - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मर्त - सार्वधातुकार्धधातुकयोः 7.3.84
मर्त+ङि यत् - नवसूरमर्तयविष्ठेभ्यो यत् (वार्तिकम्) 5.4.36
मर्त+यत् - सुपो धातुप्रातिपदिकयोः 2.4.71
मर्त+य - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मर्त्य - यस्येति च 6.4.148
नञ्+मर्त्य+जस् - नञ्‌ 2.2.6
नञ्+मर्त्य - सुपो धातुप्रातिपदिकयोः 2.4.71
अ+मर्त्य - नलोपो नञः 6.3.73
अमर्त्य+जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अमर्त्य+अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
अमर्त्यास् - प्रथमयोः पूर्वसवर्णः 6.1.102
अमर्त्यारु - ससजुषो रुः 8.2.66
अमर्त्यार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अमर्त्याः - खरवसानयोर्विसर्जनीयः 8.3.15