दिविषदः

सुधाव्याख्या

दिवि सीदन्ति वर्तन्ते । ‘षद्लृ विशरणगत्यवसादनेषु' (भ्वा० प० अ०, तु० प० अ०) । ‘सत्सूद्विष-' (३.२.६१) इति क्विप् । ‘हृद्द्युभ्यां च’ (६.३.९ वा०) इति ङेरलुक् । ‘सुषामादिषु च' (८.३.९८) इति षत्वम् ॥* ‘तत्पुरुषे कृति बहुलम्' (६.३.१४) इति ङेर्लुकि ‘द्युसदः' अपि । ‘मन:सु येन द्युसदां न्यधीयत' इति माघः ॥


प्रक्रिया

धातुः - षदॢँ विशरणगत्यवसादनेषु


षद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सद् - धात्वादेः षः सः 6.1.64
दिवि+सद् - हृद्द्युभ्यां च (६.३.९)। वार्तिकम् ।
दिवि + सद् + क्विप् - सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्‌ 3.2.61
दिवि+सद्+व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दिवि+सद् - वेरपृक्तस्य 6.1.67
दिवि+षद् - सुषामादिषु च 8.3.98
दिविषद्+जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दिविषद्+अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
दिविषद्+अरु - ससजुषो रुः 8.2.66
दिविषद्+अर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
दिविषदः - खरवसानयोर्विसर्जनीयः 8.3.15