आदितेयाः

सुधाव्याख्या

‘नञो दाञो डितिः' इति शाकटायनः । यद्वा द्यति । ‘दो अवखण्डने' (दि० प० अ०) । ‘क्तिच् क्तौ च-' (३.३.१७४) इति क्तिच् । ‘द्यतिस्यति-' (७.४.४०) इति इत्त्वम् । दितिभिन्ना अदितिः । अदित्या अपत्यानि । ‘कृदिकारादक्तिन: (४.१.४५ ग०) इति डीषन्तात् ‘स्त्रीभ्यो ढक्’।


प्रक्रिया

दो+क्तिच् - क्तिच्क्तौ च संज्ञायाम् 3.3.174
दो+ति - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
दि+ति - द्यतिस्यतिमास्थामित्ति किति 7.4.40
नञ्+दिति+सु - नञ्‌ 2.2.6
नञ्+दिति - सुपो धातुप्रातिपदिकयोः 2.4.71
न+दिति - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ+दिति - नलोपो नञः 6.3.73
अदिति+ङस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अदिति - सुपो धातुप्रातिपदिकयोः 2.4.71
आदिति+ङीष् - कृदिकारादक्तिनः (4.1.45) । गणसूत्रम् ।
आदिति+ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आदित्+ई - यस्येति च 6.4.148
आदिती+ढक् - स्त्रीभ्यो ढक् 4.1.120
आदिती+ढ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आदिती+एय - आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7.1.2
आदित् + एय - यस्येति च 6.4.148
आदितेय+जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आदितेय+अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
आदितेयास् - प्रथमयोः पूर्वसवर्णः 6.1.102
आदितेयारु - ससजुषो रुः 8.2.66
आदितेयार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आदितेयाः - खरवसानयोर्विसर्जनीयः 8.3.15