अमरकोशः


श्लोकः

सत्वरं चपलं तूर्णमविलम्बितमाशु च । सततानारताश्रान्तसंतताविरतानिशम् ॥ ६५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सत्वर सत्वरम् नपुंसकलिङ्गः सह त्वरया वर्तते । तत्पुरुषः समासः अकारान्तः
2 चपल चपलम् नपुंसकलिङ्गः चोपति । कल उणादिः अकारान्तः
3 तूर्ण तूर्णम् नपुंसकलिङ्गः क्त कृत् अकारान्तः
4 अविलम्बित अविलम्बितम् नपुंसकलिङ्गः विलम्बते स्म । नञ् समासः अकारान्तः
5 आशु आशुः नपुंसकलिङ्गः अश्नुते । उण् उणादिः उकारान्तः
6 सतत सततम् नपुंसकलिङ्गः संतन्यते स्म । क्त कृत् अकारान्तः
7 अनारत अनारतम् नपुंसकलिङ्गः अविद्यमानमारतं यस्मिन् ।। बहुव्रीहिः समासः अकारान्तः
8 अश्रान्त अश्रान्तम् नपुंसकलिङ्गः अविद्यमानं श्रान्तमत्र ।। बहुव्रीहिः समासः अकारान्तः
9 संतत सन्ततम् नपुंसकलिङ्गः क्त कृत् अकारान्तः
10 अविरत अविरतम् नपुंसकलिङ्गः नास्ति विरतमस्य ।। बहुव्रीहिः समासः अकारान्तः
11 अनिश अनिशम् नपुंसकलिङ्गः नास्ति निशास्मिन् । बहुव्रीहिः समासः अकारान्तः