अविलम्बितम्

सुधाव्याख्या

विलम्बते स्म । ‘लबि अवस्रंसने' (भ्वा० आ० से०) । अकर्मकत्वात् (३.४.७२) कर्तरि क्तः । नञ्समासः । भावे क्तः इति मुकुटस्तु पूर्ववत् ।।


प्रक्रिया

धातुः - लबिँ अवस्रंसने शब्दे च


लब् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लन्ब् - इदितो नुम् धातोः 7.1.58
लंब् - नश्चापदान्तस्य झलि 8.3.24
लम्ब् - अनुस्वारस्य ययि परसवर्णः 8.4.58
वि + लम्ब् + क्त - गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च 3.4.72
वि + लम्ब् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
विलम्ब् + इट् + त - आर्धधातुकस्येड् वलादेः 7.2.35
विलम्ब् + इ + त - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नञ् + विलम्बित + सु - नञ्‌ 2.2.6
नञ् + विलम्बित - सुपो धातुप्रातिपदिकयोः 2.4.71
न + विलम्बित - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अविलम्बित - नलोपो नञः 6.3.73
अविलम्बित + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अविलम्बित + अम् - अतोऽम् 7.1.24
अविलम्बितम् - अमि पूर्वः 6.1.107