सततम्

सुधाव्याख्या

सततेत्यादि । संतन्यते स्म । ‘तनु विस्तारे’ (त० उ० से०) । क्तः (३.४.७२) । अनुदात्तोपदेश-' (६.४.३७) इति नलोपः ‘समो वा हितततयोः’ (वा० ६.१.१४४) इति वा समो मलोपः। पक्षे संततम् ।