अनारतम्

सुधाव्याख्या

आङ्पूर्वोरमिर्विरामे । अविद्यमानमारतं यस्मिन् ।


प्रक्रिया

धातुः - रमुँ क्रीडायाम्


रम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आङ् + रम् + क्त - गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च 3.4.72
आ + रम् + क्त - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आ + रम् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आ + र + त - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
नञ् + आरत + सु - नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
नञ् + आरत - सुपो धातुप्रातिपदिकयोः 2.4.71
न + आरत - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ + आरत - नलोपो नञः 6.3.73
अ + नुट् + आरत - तस्मान्नुडचि 6.3.74
अ + न् + आरत - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अनारत + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अनारत + अम् - अतोऽम् 7.1.24
अनारतम् - अमि पूर्वः 6.1.107