चपलम्

सुधाव्याख्या

चोपति । ‘चुप मन्दायां गतौ’ (भ्वा० प० से०) । 'चुपेरच्चोपधायाः (उ० १.१११) इति कलः प्रत्ययः ('चपलः पारदे मीने चोरके प्रस्तरान्तरे । चपला कमला विद्युत्पुंश्चलीपिप्पलीषु च । नपुंसकं तु शीघ्रे स्याद्वाच्यवत्तरले चले')