अमरकोशः


श्लोकः

व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः । स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा ॥ ४८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 व्योमयान व्योमयानम् नपुंसकलिङ्गः व्योम्नि यान्त्यनेन । ल्युट् कृत् अकारान्तः
2 विमान विमानम् पुंलिङ्गः, नपुंसकलिङ्गः विशिष्टं मानयन्यनेन । ल्युट् कृत् अकारान्तः
3 नारद नारदः पुंलिङ्गः नरस्य धर्म्यम् । तत्पुरुषः समासः अकारान्तः
4 सुधर्मा सुधर्मा स्त्रीलिङ्गः शोभनो धर्मोऽस्याम् । बहुव्रीहिः समासः आकारान्तः
5 देवसभा देवसभा स्त्रीलिङ्गः सह भान्त्यस्याम् । बहुव्रीहिः समासः आकारान्तः
6 पीयूष पीयूषम् नपुंसकलिङ्गः पीयते । ऊषन् उणादिः अकारान्तः
7 अमृत अमृतम् नपुंसकलिङ्गः न म्रियन्तेऽनेन । तत्पुरुषः समासः अकारान्तः
8 सुधा सुधा स्त्रीलिङ्गः सुखेन धीयते । अङ् कृत् आकारान्तः