पीयूषम्

सुधाव्याख्या

पीयूषमिति । पीयते । पीय’ इति सौत्रो धातुः । ‘पीयेरूषन्' (उ० ४.७६) । बहुलवचनात्पक्षे गुणः । 'स्यात्पेयुषं च पीयूषं नवक्षीरेऽमृतेऽपि च' इति हारावली । ‘पीयूषं सप्तदिवसा वधिक्षीरे तथाऽमृते ।


प्रक्रिया

धातुः - पीय इति सौत्रो धातुः ।


पीय् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पीय् + ऊषन् - पीयेरूषन् (४.७६) उणादिः
पीय् + ऊष - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पीयूष + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पीयूष अम् - अतोऽम् 7.1.24
पूयूषम् - अमि पूर्वः 6.1.107