अमृतम्

सुधाव्याख्या

न म्रियन्तेऽनेन । ‘तनिमृङ्भ्यां किच्च' (उ० ३.८८) इति तन् । अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते । अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः ।