नारदः

सुधाव्याख्या

नरस्य धर्म्यम् । ‘नराच्चेति वक्तव्यम् (वा० ४.४.४९) इत्यण् (ञ्) । नारं ददाति । ‘आतोऽनुप (३.२.३) इति क: । यद्वा नारं पानीयमित्युक्तं तत् पितृभ्यः सदा भवान् । ददाति तेन ते नाम नारदेति भविष्यति’ इत्यागमः । नारं नरसमूहं द्यति कलहेनेति वा । नुरिदं नारमज्ञानम् । तद्दयति ज्ञानोपदेशेनेति वा । दो अवखण्डने (दि० प० अ०) कः (३.२.३) ।