सुधा

सुधाव्याख्या

सुखेन धीयते । ‘धेट् पाने’ (भ्वा० प० अ०) । आतश्चोपसर्गे’ (३.३.१०६) इति कर्मण्यङ् । यत्तु-अङ्विधौ (३.३.१०४,५,६) कारकाधिकारः (३.३.१९,९३) निवृत्त:-इति मुकुटः । तदाकरविरुद्धम् । द्वितीयभावग्रहणस्य (३.३.९५) कारकाधिकारनिवृत्त्यर्थत्वात् - इति हेतुरपि स्वरूपासिद्धः । ‘अभिविधौ भावे-’ (३..३४) इत्यस्याग्रेऽनुवर्तनात् । यदपि- सुष्ठु दधाति पुष्णाति शरीरमिति पचाद्यजन्तात् (३.१.१३४) टाप् (४.१.४) इति–तदपि न । नित्यत्वाद न्तरङ्गत्वाच्चैकादेशेऽदन्तत्वाभावेन टाबयोगात् । एकादेशस्य पूर्वान्तत्वेन ग्रहणात्सस्यालोपप्रसङ्गाच्च । ‘आतश्चोपसर्गे (३.१.१३६) कप्रत्ययो वक्तुमुचितः । (‘सुधा गङ्गेष्टिकास्नुह्योर्मूर्वालेपामृतेषु च') ।