अमरकोशः


श्लोकः

कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः । हरः स्मरहरो भर्गस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कृशानुरेतस् कृशानुरेतः पुंलिङ्गः कृशानौ रेतो यस्य । बहुव्रीहिः समासः सकारान्तः
2 सर्वज्ञ सर्वज्ञः पुंलिङ्गः सर्वं जानाति । तत्पुरुषः समासः अकारान्तः
3 धूर्जटि धूर्जटिः पुंलिङ्गः धूर्मारभूता जटिर्यस्य । बहुव्रीहिः समासः इकारान्तः
4 नीललोहित नीललोहितः पुंलिङ्गः नीलश्चासौ लोहितश्च कण्ठे जटासु च । तत्पुरुषः समासः अकारान्तः
5 हर हरः पुंलिङ्गः हरति । अच् कृत् अकारान्तः
6 स्मरहर स्मरहरः पुंलिङ्गः स्मरं हरति । तत्पुरुषः समासः अकारान्तः
7 भर्ग भर्गः पुंलिङ्गः भर्जते । अच् कृत् अकारान्तः
8 त्र्यम्बक त्र्यम्बकः पुंलिङ्गः त्रीण्यम्बकान्यस्य । बहुव्रीहिः समासः अकारान्तः
9 त्रिपुरान्तक त्रिपुरान्तकः पुंलिङ्गः त्रयाणां धातूनां पुराणि, तेषामन्तकः । तत्पुरुषः समासः अकारान्तः