त्रिपुरान्तकः

सुधाव्याख्या

त्रयाणां धातूनां पुराणि, तेषामन्तकः । त्र्यवयवं पुरं त्रिपुरम्, तस्यान्तक इति वा । त्रयाणां पुराणां समाहार । ‘पात्रादिः’ (वा० २.४.३०) इति प्राञ्चः । तन्न । तथा सति पञ्चपात्री' इतिवत् ‘त्रिपुरी’ इति प्रयोगभावप्रसङ्गात् ।