भर्गः

सुधाव्याख्या

भर्जते । ‘भृजी भर्जने' (भ्वा० आ० से०) । पचाद्यच् (३.१.१३४) । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् । भृज्यन्ते कामादयोऽनेनेति वा । 'हलश्च’ (३.३.१२१) इति घञ् ।। ‘भर्ग्यः’ इति पाठे ण्यत् (३.१.१२४)