धूर्जटिः

सुधाव्याख्या

धूर्मारभूता जटिर्यस्य । ‘जटझट संघाते' (भ्वा० प० से०) । 'सर्वधातुभ्यः (४.११८ उणा०) इतीन् । 'जटिर्जटा' इति द्विरूपकोशः । धूर्गङ्गा जटास्वस्य इति स्वामी । तन्न । जटिष्वस्यति वक्तुमुचितत्वात् ।