त्र्यम्बकः

सुधाव्याख्या

त्रीण्यम्बकान्यस्य । त्रिष्वम्बकमस्येति वा । अम्बकं नयनं दृष्टिः इति हलायुधः । त्रयाणां लोकानामम्बकः पिता इति वा । त्रीन्वेदानम्बते शब्दायते वा । ‘अबि शब्दे’ (भ्वा० आ० से०) कर्मण्यण् (३.२.१) संज्ञायाम् (५.३ ८७) इति कः (न्) त्रिषु लोकेषु कालेषु वा अम्बः शब्दो वेदलक्षणो यस्येति वा । त्रयः अकारोकारमकारा अम्बाः शब्दा वाचका यस्येति वा । तिस्रोऽम्बाः द्यौर्भूम्यापो यस्येति तु भारतम् ।।