अमरकोशः


श्लोकः

उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् । वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः ॥ ३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उग्र उग्रः पुंलिङ्गः उच्यति क्रुधा संवध्यते - उग्रः । रन् उणादिः अकारान्तः
2 कपर्दिन् कपर्दी पुंलिङ्गः कपर्दोऽस्यास्ति । इनि तद्धितः नकारान्तः
3 श्रीकण्ठ श्रीकण्ठः पुंलिङ्गः श्रीः शोभा कण्ठेऽस्य । बहुव्रीहिः समासः अकारान्तः
4 शितिकण्ठ शितिकण्ठः पुंलिङ्गः शितिः कालः कण्ठोऽस्य । बहुव्रीहिः समासः अकारान्तः
5 कपालभृत् कपालभृत् पुंलिङ्गः कपालं बिभर्ति । तत्पुरुषः समासः तकारान्तः
6 वामदेव वामदेवः पुंलिङ्गः वामयति दुष्टानां मदमिति वामः । तत्पुरुषः समासः अकारान्तः
7 महादेव महादेवः पुंलिङ्गः महांश्चासौ देवश्च । तत्पुरुषः समासः अकारान्तः
8 विरूपाक्ष विरूपाक्षः पुंलिङ्गः विविधानि रविचन्द्राग्निरूपाण्यक्षीण्यस्य । बहुव्रीहिः समासः अकारान्तः
9 त्रिलोचन त्रिलोचनः पुंलिङ्गः त्रीणि लोचनानि यस्य । बहुव्रीहिः समासः अकारान्तः