त्रिलोचनः

सुधाव्याख्या

त्रीणि लोचनानि यस्य । त्रिषु कालेषु लोकेषु गुणेषु वेदेषु लोचनं ज्ञानं यस्येति वा । त्रयो वेदा वर्णा अकारोकारमकारा वा लोचनानि यस्मिन् वा ॥