उग्रः

सुधाव्याख्या

उच्यति क्रुधा संवध्यते - उग्रः । ‘उच समवाये (दि० प० से०) । 'ऋज्र-' (उ० २.२८) इत्यादिना रन् गश्चान्तादेशः । ('उग्रः क्षत्रियतः शूद्रयां सूनावुत्कटरुद्रयोः । उग्रा वचाछिक्किकयोः’) ।


प्रक्रिया

धातुः - उचँ समवाये


उच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उग् + रन् - ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२८) । उणादिसूत्रम् ।
उग्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
उग्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उग्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उग्र + रु - ससजुषो रुः 8.2.66
उग्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उग्रः - खरवसानयोर्विसर्जनीयः 8.3.15