कपालभृत्

सुधाव्याख्या

कपालं बिभर्ति ।।


प्रक्रिया

धातुः - डुभृञ् धारणपोषणयोः


भृ - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
कपाल + अम् भृ + क्विप् - उपपदमतिङ् 2.2.19, क्विप् च 3.2.76
कपाल + भृ + क्विप् - सुपो धातुप्रातिपदिकयोः 2.4.71
कपाल + भृ + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कपाल + भृ - वेरपृक्तस्य 6.1.67
कपाल + भृ + तुक् - ह्रस्वस्य पिति कृति तुक् 6.1.71
कपाल+भृ+त् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कपालभृत्+सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कपालभृत्+स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कपालभृत् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68