विरूपाक्षः

सुधाव्याख्या

विविधानि रविचन्द्राग्निरूपाण्यक्षीण्यस्य । ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्' (५.४.११३) विरूपेष्वपि अक्षि कृपादृष्टिर्यस्येति वा । विविधरूपाणि विविधरूपेषु वा अक्षाणीन्द्रियाण्यस्येति वा ।।