वामदेवः

सुधाव्याख्या

वामयति दुष्टानां मदमिति वामः । टुवम् उद्गिरणे (भ्वा० प० से०) । णिच् (३.१.२६) पचाद्यच् (३.१ १३४) । वामश्चासौ देवश्च । लोकविपरीतत्वाद्वा वामः (‘वामं धने, हरे पुंसि कामदेवे पयोधरे') यत्तु घञि (३..१८, १९) नोदात्तोपदेश-' (७.३.३४) इत्यादिना वृद्धिनिषेधे प्राप्ते 'अनाचमेः’ (७.३.३४) इति कम्यमिवमि-' इत्यादिना निषेधः, इति मुकुटेनोक्तम् । तन्न । कर्तरि घञोऽसम्भवात् । भवादौ सम्भवेऽपि देवेन सामानाधिकरण्यासम्भवात् । लोका- चारविपरीतत्वाद्वामो देवः क्रीडा यस्येति वा समाधेयम् । वामेषु श्रेष्ठेषु देवो द्योतो यस्येति वा ।


प्रक्रिया