अमरकोशः


श्लोकः

आदित्यविश्ववसवस्तुषिताभास्वरानिलाः । महाराजिकसाध्याश्च रुद्राश्च गणदेवताः ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आदित्य आदित्यः पुंलिङ्गः ण्य तद्धितः अकारान्तः
2 विश्व विश्वः पुंलिङ्गः विशन्ति कर्मस्विति विश्वे । क्वन् उणादिः अकारान्तः
3 वसु वसवः पुंलिङ्गः वसन्तीति वसवः । उणादिः उकारान्तः
4 तुषित तुषिताः पुंलिङ्गः तुष्यन्ति । कितच् उणादिः अकारान्तः
5 आभास्वर आभास्वराः पुंलिङ्गः आ समन्ताद्भासनशीलाः । वरच् कृत् अकारान्तः
6 अनिल अनिलाः पुंलिङ्गः अनन्त्यनेन । इलच् उणादिः अकारान्तः
7 महाराजिक महाराजिकः पुंलिङ्गः महती राजि: पङ्क्तिर्येषाम् । कप् तद्धितः अकारान्तः
8 साध्य साध्याः पुंलिङ्गः साध्यं सिद्धिः । साऽस्त्येषाम् । ण्यत् कृत् अकारान्तः
9 रुद्र रुद्राः पुंलिङ्गः रोदयन्त्यसुरान् । रक् उणादिः अकारान्तः