आदित्यः

सुधाव्याख्या

आदित्यादयः प्रत्येकं गणदेवताः समुदायचारिण्यो देवताः । एकत्वं तु समुदायवृत्तानामवयववृत्तेरप्यभ्युपगमात् । 'आदित्या द्वादश प्रोक्ता विश्वेदेवा दश स्मृताः । वसवश्चाष्टसंख्याता: षत्रिंशत्तुषिता मताः । आभास्वराश्चतुःषष्टिर्वाता: पञ्चाशदूनकाः । महाराजिकनामानो द्वे शते विंशतिस्तथा । साध्या द्वादश विख्याता रुद्राश्चैकादश स्मृताः ।