तुषिताः

सुधाव्याख्या

तुष्यन्ति । ‘तुष तुष्टौ । ‘रुचिकुटिरुषिभ्यः कितच्’ (उ० ४.१८६) इति बाहुलकात् कितच् । यद्वा तोषणं तुट् । सम्पदादिः (वा० ३.३.१०८) । ततः ‘तारकादित्वादितच्’ (५.२.३६) ॥