वसवः

सुधाव्याख्या

वसन्तीति वसवः । ‘वस निवासे' ‘शृ-स्वृ-स्निहि-त्रप्यसि-वसि-हनि-क्लिदि-बन्धि मनिभ्यश्च' (उ० १.१०) इति उः । ‘विश्वस्य वसुराटो: (६.३.१२८) इति दीर्घा न । असंज्ञात्वात् । (‘वसुस्त्वग्रौ देवभेदे नृपे रुचौ । योक्त्रे शुष्के वसु स्वादौ रत्ने वृद्ध्यौषधे धने') ॥