महाराजिकः

सुधाव्याख्या

महती राजि: पङ्क्तिर्येषाम् । ‘शेषाद्विभाषा' (५.४.१५४) इति कप् । ‘माहाराजिक' इति पाठे महाराजो देवता येषाम् । ‘महाराजप्रोष्ठपदाट्ठञ्' (४.२.३५) इति ठञ् । यद्यपि—सूक्तहविर्भागिन एव देवतात्वम्, तथापि ‘आग्नेयो वै ब्राह्मणः' इतिवदुपचारो बोध्यः ॥