विश्वः

सुधाव्याख्या

विशन्ति कर्मस्विति विश्वे । ‘विश प्रवेशने' (तु० प० अ०) । ‘अशू प्रुषि-लटि-कणि-कटि विशिभ्यः क्वन्' (उ० १.१५१) । सर्वनामसंज्ञोऽयम् । आधुनिकसंज्ञास्वेव सर्वनामत्वपर्युदासात् । मुकुटस्तु–सर्वेषां विश्वे(षां) देवानां नाम इति कृत्वा सर्वनामसंज्ञ:-इत्याह । तन्न । एकशब्दस्य बहुषु सङ्केतितस्य संज्ञात्वौचित्यात् । यथा प्राचीनबर्हिषः पुत्रेषु सङ्केतितस्य प्रचेत:शब्दस्य । ‘यथा पूर्वजवृत्ति: पूर्वशब्दः' इति तदीयदृष्टान्तोऽपि चिन्त्यः । पूर्वजवृत्ते: पूर्वशब्दस्य व्यवस्थायां सत्त्वात्संज्ञात्वोक्तिसम्भवाभावात् (‘विश्वा त्वति विषायां स्त्री जगति स्यान्नपुंसकम् । न ना शुण्ठ्यां पुंसि देवप्रभेदेष्वखिले त्रिषु') ॥