अमरकोशः


श्लोकः

कौतूहलं कौतुकं च कुतुकं च कुतूहलम् । स्त्रीणां विलासविव्वोकविभ्रमा ललितं तथा ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कौतूहल कौतूहलम् नपुंसकलिङ्गः कुतूं चर्मनिर्मितस्नेहपात्रं हलति । अण् तद्धितः अकारान्तः
2 कौतुक कौतुकम् नपुंसकलिङ्गः अकारान्तः
3 कुतुक कुतुकम् नपुंसकलिङ्गः कुतूं कायति । उपपदसमासः समासः अकारान्तः
4 कुतूहल कुतूहलम् नपुंसकलिङ्गः कुतूं कायति । उपपदसमासः समासः अकारान्तः
5 विलास विलासः विलसनम् । घञ् कृत् अकारान्तः
6 विव्वोक विव्वोकः विवानम् । कुः उणादिः अकारान्तः
7 विभ्रम विभ्रमः विभ्रमणम् । घञ् कृत् अकारान्तः
8 ललित ललितम् क्तः कृत् अकारान्तः