विभ्रमः

सुधाव्याख्या

विभ्रमणम् । 'भ्रमु अनवस्थाने’ (दि० प० से०) । घञ् (३.३.१८) । ‘नोदात्तोपदेश-' (७.३.३४) इति न वृद्धिः । ‘चित्तवृत्त्यनवस्थानं शृङ्गाराद्विभ्रमो मतः । अथ विभ्रमः । शोभायां संशये हावे' इति हैमः । विभ्रमो भ्रान्ति हावयोः॥