कुतुकम्

सुधाव्याख्या

कुतूं कायति । ‘कै शब्दे’ (भ्वा० प० अ०) । आतोऽनुप- (३.२.३) इति कः । उपपदसमासः (२.२ १९) । 'इको ह्रस्वोऽङ्गयः-' (६.३.६१) इति ह्रस्वः । प्रज्ञाद्यण् (५.४.३८) वा । यद्वा कुत्वां भवम् । अध्यात्मादित्वात् (वा० ४.३.६०) ठञ् । 'इसुसुक्-’ (७.३.५१) इति कः । केऽणः (७.४.१३) इति ह्रस्वः । संज्ञापूर्वकत्वात्पक्षे वृद्धयभावः । यत्तु ‘तुज हिंसायाम्' (भ्वा० प० से०) । कुं तुजति । मूलविभुज-' (वा० ३.२.५) इति कः । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् इति मुकुटेनोक्तम् । तन्न । कुत्वे आन्तरतम्याज्जस्य गत्वप्रसङ्गात् । (‘कौतुकं नर्मणीच्छायामुत्सवे कुतुके मुदि । पारम्पर्यागतख्यातमङ्गलोद्वाहसूत्रयोः । गीतादौ भोगकाले च ')