विव्वोकः

सुधाव्याख्या

विवानम् । ‘वा गतौ’ (अ० प० अ०) । विवुर्गतिविशेषः । (यत्तु) 'अपष्ट्वादयः’ इति कुः इति मुकुटः । तन्न । तादृशसूत्रादर्शनात् । ‘मृगय्वादयश्च' (उ० १.३७) । इति तूचितम् । उच्यते समवैत्यत्र । ‘उच समवाये (दि० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञर्थे । यद्वा ‘कः’ (वा० ३.३.५८) । ‘ओक उच: के (७.३.६४) इति निपातितः । विवोरोकः स्थानम् । विव्वोकोऽभिमतप्राप्तावपिगर्वदनादरः ।


प्रक्रिया

धातुः - वा गतिगन्धनयोः , उचँ समवाये


वा गतिगन्धनयोः
वा + कु - मृगय्वादयश्च (१.३७) । उणादिसूत्रम् ।
वि + वा + उ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वि + व् + उ - आतो लोप इटि च 6.4.64
उचँ समवाये
उच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उच् + क - घञर्थे कविधानम् (3.3.58) । वार्तिकम् ।
उच् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
ओक् + अ - ओक उचः के 7.3.64
विवु + ङस् + ओक + सु - षष्ठी 2.2.8
विवु + ओक - सुपो धातुप्रातिपदिकयोः 2.4.71
विव् + व् + ओक - इको यणचि 6.1.77
विव्वोक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विव्वोक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विव्वोक + रु - ससजुषो रुः 8.2.66
विव्वोक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विव्वोकः - खरवसानयोर्विसर्जनीयः 8.3.15