कौतूहलम्

सुधाव्याख्या

कौतूहलमिति । कुतूं चर्मनिर्मितस्नेहपात्रं हलति । हल विलेखने' (भ्वा० प० से०) मूलविभुजादित्वात् (वा० ३.२.५) कः । यद्वा हलति । पचाद्यच् (३.३.१३४) । कृत्वा हलम् । प्रज्ञाद्यणि (५.४.३८) कौतूहलम् ॥