विलासः

सुधाव्याख्या

विलसनम् । ‘लस श्लेषणे’ (भ्वा० प० से०) । घञ् (३.३.१८) । विलासोऽङ्गे विशेषो यः प्रियाप्तावासनादिषु । विलासो हावभेदे स्याल्लीलायामपि पुंस्ययम् ।