अमरकोशः


श्लोकः

कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे । कुसृतिर्निकृतिः शाठ्यं प्रमादोऽनवधानता ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कपट कपटः पुंलिङ्गः, नपुंसकलिङ्गः के मूर्ध्नि पट इवाच्छादकः । अच् कृत् अकारान्तः
2 व्याज व्याजः पुंलिङ्गः व्यजन्ति क्षिपन्त्यनेन । घञ् कृत् अकारान्तः
3 दम्भ दम्भः पुंलिङ्गः दभ्यतेऽनेन । घञ् कृत् अकारान्तः
4 उपधि उपधिः पुंलिङ्गः उपधीयते आरोप्यतेऽनेन । किः कृत् इकारान्तः
5 छद्मन् छद्म नपुंसकलिङ्गः छाद्यतेऽनेन । मनिन् कृत् नकारान्तः
6 कैतव कैतवम् नपुंसकलिङ्गः कितवस्य कर्म । अण् तद्धितः अकारान्तः
7 कुसृति कुसृतिः स्त्रीलिङ्गः कुत्सिता सृतिः । प्रादिसमासः समासः इकारान्तः
8 निकृति निकृतिः स्त्रीलिङ्गः निकृष्टा कृतिः क्रिया परप्रतारणरूपा, यद्वा पराभीष्टस्य निकर्तनम् । इक् इकारान्तः
9 शाठ्य शाठ्यम् नपुंसकलिङ्गः शठति । ष्यञ् तद्धितः अकारान्तः
10 प्रमाद प्रमादः पुंलिङ्गः घञ् कृत् अकारान्तः
11 अनवधानता अनवधानता स्त्रीलिङ्गः न अवधानमस्य । तस्य भाव ॥ तल् तद्धितः आकारान्तः