निकृतिः

सुधाव्याख्या

निकृष्टा कृतिः क्रिया परप्रतारणरूपा, यद्वा पराभीष्टस्य निकर्तनम् । ‘कृती छेदने’ (तु० प० से०) । इक् कृष्यादिभ्यः’ (वा० ३.३.१०८) इतीक् । निकृतिर्भत्सने क्षेपे शठे शाठ्येऽपि च स्त्रियाम् । इति विश्वमेदिन्यौ ।