व्याजः

सुधाव्याख्या

व्यजन्ति क्षिपन्त्यनेन । अज गतिक्षेपणयोः (भ्वा० प० से०) । हलश्च (३.३.१२१) इति घञ् । निष्ठायां सेट्त्वान्न कुत्वम् । व्याज: शाठ्येऽपदेशे च' इति विश्वः ।