अमरकोशः


श्लोकः

समस्या तु समासार्था किंवदन्ती जनश्रुतिः । वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यादथाह्वयः ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समस्या समस्या स्त्रीलिङ्गः समसनम् । ण्यत् कृत् आकारान्तः
2 समासार्था समासार्था स्त्रीलिङ्गः समसनं समासः । घञ् कृत् आकारान्तः
3 किंवदन्ती किंवदन्ती स्त्रीलिङ्गः कोऽपि वादः किंपूर्वाद्वदेः झच् उणादिः ईकारान्तः
4 जनश्रुति जनश्रुतिः स्त्रीलिङ्गः जनेभ्यः श्रूयते । क्तिन् कृत् इकारान्तः
5 वार्ता वार्ता स्त्रीलिङ्गः वृत्तिर्लोकवृत्तम् । णः तद्धितः आकारान्तः
6 प्रवृत्ति प्रवृत्तिः स्त्रीलिङ्गः प्रवर्तते व्याप्नोति वृत्तेः क्तिच् कृत् इकारान्तः
7 वृत्तान्त वृत्तान्तः पुंलिङ्गः वृत्तोऽनुवर्तनीयो गवेषणीयोऽन्तः समाप्तिर्यस्य । अकारान्तः
8 उदन्त उदन्तः पुंलिङ्गः उद्गतोऽन्तो यस्य । बहुव्रीहिः समासः अकारान्तः
9 आह्वय आह्वयः पुंलिङ्गः आह्वयन्त्याह्वाः । डः कृत् अकारान्तः