आह्वयः

सुधाव्याख्या

आह्वयन्त्याह्वाः । ‘आतश्चोपसर्गे’ (३.१.१३६) इति के प्राप्ते ‘प्रसारणिभ्यो डो वक्तव्यः (वा० ३.२.३) इति ड: । तैर्यायते प्राप्यते । ‘या प्रापणे’ (अ० प० अ०) घञर्थे कः (वा० ३.३.५८) । अन्यत्रापि’ (वा० ३.२.४८) इति डो वा । यद्वा आह्वानमाहूः । संपदादिः (वा० ३.३.१०८) । तस्या अयः ॥


प्रक्रिया

धातुः - ह्वेञ् स्पर्धायां शब्दे च , या प्रापणे


ह्वेञ् स्पर्धायां शब्दे च
ह्वे - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आङ् + ह्वे + ड - कविधौ सर्वत्र प्रसारणिभ्यो ङः (3.2.3) । वार्तिकम् ।
आ ह्वे अ - चुटू 1.3.7, तस्य लोपः 1.3.9
आ ह्व् अ - डित्वसामर्थ्यादभस्यापि टेर्लोपः।
या प्रापणे
आह्व + या + क - घञर्थे कविधानम् (3.3.58) । वार्तिकम् ।
आह्व + या + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
आह्व + य् अ - आतो लोप इटि च 6.4.64
अह्वय + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अह्वय + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अह्वय + रु - ससजुषो रुः 8.2.66
अह्वय + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अह्वयः - खरवसानयोर्विसर्जनीयः 8.3.15