किंवदन्ती

सुधाव्याख्या

कोऽपि वादः किंपूर्वाद्वदेः ‘भूतॄवहिवसि' (उ० ३.१२८) इति झच् । 'झोऽन्तः’ (७.१.३) । ‘गौरादित्वात्' (४.१.४१) डीष् । यद्वा किंवदन्ति’ इत्याख्यायमाना । अनुकरणशब्दादाख्यातण्यन्तात् (वा० ३.१.२६) । ‘अच इः' (उ० ४.१३९) । ‘कृदिकारात्-' (ग० ४.१.४५) इति डीष् ।


प्रक्रिया