समस्या

सुधाव्याख्या

समेति । समसनम् । असु क्षेपणे' (दि० प० से) । ण्यत् (३.१.१२४) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । यद्वा समं कृत्स्नम् । तद्विषयिणीच्छा समस्या । तत्प्रयोज्यत्वाच्छब्दोऽपि सा । समशब्दात्क्यचि (३.१.८) 'सर्वप्रातिपदिकेभ्यः’ (वा० ७.१.५१) इति सुगागमे 'अ प्रत्ययात्’ (३.३.१०२) इत्य: टाप् (४.१.४) ॥