समासार्था

सुधाव्याख्या

समसनं समासः । घञ् (३.३.१८) समासोऽर्थो यस्याः पूरणसाकाङ्क्षा । कविशक्तिपरीक्षार्थमपूर्णतयैव पठ्यमाना । यथा ‘शतचन्द्रं नभस्तलम्’ इति । तत्र ‘दामोदरकराघातविह्वलीकृतचेतसा । दृष्टं चाणूरमल्लेन' इत्यादिना सा पूर्यते ॥


प्रक्रिया

धातुः - असुँ क्षेपणे


अस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सम् + अस् + घञ् - भावे 3.3.18
सम् + अस् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
समास + सु + अर्थ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
समास + अर्थ - सुपो धातुप्रातिपदिकयोः 2.4.71
समासार्थ - अकः सवर्णे दीर्घः 6.1.101
समासार्थ + टाप् - अजाद्यतष्टाप्‌ 4.1.4
समासार्थ + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
समासार्था - अकः सवर्णे दीर्घः 6.1.101
समासार्था + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
समासार्था + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
समासार्था - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68