अमरकोशः


श्लोकः

बुद्धिर्मनीषा धिषणा धी: प्रज्ञा शेमुषी मतिः । प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बुद्धि बुद्धिः स्त्रीलिङ्गः बुध्यतेऽनया । क्तिन् कृत् इकारान्तः
2 मनीषा मनीषा स्त्रीलिङ्गः मनस ईषा । तत्पुरषः समासः आकारान्तः
3 धिषणा धिषणा स्त्रीलिङ्गः धृष्णुवन्त्यनया । युच् उणादिः आकारान्तः
4 धी धीः स्त्रीलिङ्गः ध्यायत्यनया । क्विप् कृत् ईकारान्तः
5 प्रज्ञा प्रज्ञा स्त्रीलिङ्गः प्रज्ञायतेऽनया । अङ् कृत् आकारान्तः
6 शेमुषी शेमुषी स्त्रीलिङ्गः शेते । मोहः । तं मुष्णाति । विच् कृत् ईकारान्तः
7 मति मतिः स्त्रीलिङ्गः मन्यतेऽनया । क्तिन् कृत् इकारान्तः
8 प्रेक्षा प्रेक्षा स्त्रीलिङ्गः प्रकृष्टमीक्षणम् । अः कृत् आकारान्तः
9 उपलब्धि उपलब्धिः स्त्रीलिङ्गः उपलम्भनम् । क्तिन् कृत् इकारान्तः
10 चित् चित् स्त्रीलिङ्गः क्विप् कृत् तकारान्तः
11 संविद् संवित् स्त्रीलिङ्गः संवेदनम् । क्विप् कृत् दकारान्तः
12 प्रतिपत् प्रतिपद् स्त्रीलिङ्गः प्रातिपदनम् । क्विप् कृत् तकारान्तः
13 ज्ञप्ति ज्ञप्तिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
14 चेतना चेतना स्त्रीलिङ्गः युच् कृत् आकारान्तः