ज्ञप्तिः

सुधाव्याख्या

ज्ञप मिच्च’ (चु० प० से०) चुरादिः । ण्यन्तत्वाद्युचि (३.३.१०७) प्राप्ते आवादित्वात् (वा० ३.३.९४) बाहुलकाद्वा क्तिन् । यदा तु चुरादीनां णिजभावे सामान्यापेक्षं ज्ञापकम् । तदा क्तिन् न्याय्य एव । तितुत्र- (७.२.९) इति नेट् ।