प्रज्ञा

सुधाव्याख्या

प्रज्ञायतेऽनया । प्रज्ञानं वा । 'ज्ञा - अवबोधने’ (क्र्या० प० अ०) । आतश्चोपसर्गे (३. ३.१०६) इत्यङ् । 'प्रज्ञस्तु पण्डिते वाच्यलिङ्गो, बुद्धौ तु योषिति' । श्रद्धापि । 'प्रज्ञा श्रद्धा धरा ज्ञप्तिः पण्डा संवेदनं विद' इति शब्दार्णवात् ।