शेमुषी

सुधाव्याख्या

शेते । शेः विच् (३ . २.७५) । मोहः । तं मुष्णाति । शेमुषी । 'मुष स्तेये' (क्र्या० प० से०) मूलविभुजादित्वात् (वा० ३.२.५) कः । गौरादित्वात् (४.१.४१) डीष् ।


प्रक्रिया

धातुः - शीङ् स्वप्ने , मुषँ स्तेये


शीङ् स्वप्ने
शी - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शी + विच् - अन्येभ्योऽपि दृश्यन्ते 3.2.75
शे + विच् - सार्वधातुकार्धधातुकयोः 7.3.84
शे + व् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शे - वेरपृक्तस्य 6.1.67
मुषँ स्तेये
मुष् - उपदेशेऽजनुनासिक इत् 1.3.2
शे + अम् + मुष् + क - कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (3.2.5) । वार्तिकम् ।, उपपदमतिङ् 2.2.19
शे + मुष् + क - सुपो धातुप्रातिपदिकयोः 2.4.71
शे + मुष् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शेमुष + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
शेमुष + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
शेमुष् + ई - यस्येति च 6.4.148
शेमषी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
शेमुषी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शेमुषी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68