मनीषा

सुधाव्याख्या

ईष गतिहिंसादर्शनेषु’ (भ्वा० आ० से०) । ‘गुरोश्च हलः (३.३.१०३) इत्यप्रत्ययः । मनस ईषा । शकन्ध्वादित्वात् (वा० ६१.९४) टे: पररूपम् ।


प्रक्रिया

धातुः - ईषँ गतिहिंसादर्शनेषु


ईष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ईष् + अ - गुरोश्च हलः 3.3.103
ईष + टाप् - अजाद्यतष्टाप्‌ 4.1.4
ईष + आ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ईषा - अकः सवर्णे दीर्घः 6.1.101
ईषा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ईषा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ईषा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
मनस् + ङस् + ईषा + सु - षष्ठी 2.2.8
मनस् + ईषा - सुपो धातुप्रातिपदिकयोः 2.4.71
मनीषा - शकन्ध्वादिषु पररूपं वाच्यम्, तच्च टेः (6.1.94) । वार्तिकम् ।
मनीषा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मनीषा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मनीषा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68