चेतना

सुधाव्याख्या

‘चित संचेतने’ (चु० अ० से०) चुरादिः । ‘ण्यासश्रन्थः-' (३.३.१०७) इति युच् । चेतना संविदि स्त्रियाम् । वाच्यवत्प्राणयुक्ते ॥